द्रविडभाषा कवयित्री अव्वैयार महाभागा

अलमेलु कृष्णन्

पुरा  काले कवय: देशभक्ता:, राज्ञ: मित्रा:, उपदेशका: च आसन् | राजसभायां तेषां स्थानामन्यतममासीत् |

क्रिस्तुपूर्वे प्रथमे शताब्दे अव्वैयार नामधेया सुप्रसिद्धा साध्वी कवयित्री द्रविडदेशे वसतिस्म | सा महाभागा न केवलं कवयित्रिरासीत् अपितु गायिका च | चेर चोल पांड्य राजपरिवारेभ्य: सा महाभागा पूजनीया आसीत् | |

तया विरचिता: प्रसिद्धा: ग्रन्था: आत्तिच्चूडि, कोन्ट्रैवेन्दन, मूदुरै, नल्वली च | चत्वारा: अपि ग्रन्था: बालोपयोगी उपदेशात्मका: लौकिक जीवन मार्गदर्शका: च | तदुपरि आध्यात्मिक नैतिक राजनैतिकादि विषयेऽपि सा अद्वितीया पंडिता आसीत् | स्वजीवितस्य भूरिभागं सा तकडूर प्रदेशस्य मलवर् कुलोत्पन्न अतियमान अंची नामाधेयस्य राज्ञ: सभायामेव व्यतीतवती | अस्य प्रदेशस्य आधुनिक: नाम: धर्मपुरी | एतत् प्रदेश: अधुना द्रविड़ देशे सेलम जिलायाम् अस्ति |

एकदा कांची प्रदेशस्य राजा तोंडैमान:, राजानं अतियमानं युद्धाय समाहूतवान् | अतियमानपि  युद्ध सन्नाहं कर्तुं स्वसेनापतिम् आदिशवान् | तदवसरे अव्वैयार महाभागा राजानं उवाच, “ राजन् आवेगं मास्तु | अहं कांची नगरं  गत्वा राजानं उपदिशामि “ इति | राजाऽपि तद्निर्देशं स्वीकृत्य तां राजदूतिकामिव कांची राज्यं प्रेषितवान् |

अव्वैयार् महाभागा अतियमान् राजानं प्रति स्व युद्ध सज्जतां वर्णितुमुवाच | राजा तोंडैमान: सदर्पं स्व आयुधशालां  प्रदर्शयमास | अव्वैयार महाभागा “भो राजन् भवत: सर्वे आयुधा: स्वच्छा: प्रशोभमानाश्च | परन्तु राज्ञ: अतियमानस्य सर्वेऽपि आयुधा: सततं रक्तरंजिता: प्रतिधानाऽवस्थायां च सन्ति “ इति निन्दास्तुतिं कृतवती | युवा राजा तोंडैमानपि अतिकुशल:आसीत् | अव्वैयार् महोदयाया: वचनान्तर्गत भावं सूचनां च सुष्ठु ज्ञात्वा स: “ अहं तु नितरां अनुभवहीन:, महत्वाकांक्षी युद्धकामी च | राजा अतियमान् तु अनुभवी युद्धकुश्लश्च | तेन सह युद्धं कर्तुम् इच्छा अनुचितमेव | कांक्षित फलप्राप्ति: असंभव: “ एवं विचिन्त्य अव्वैयार महाभागां  प्रति क्षमा याचनामकरोत् |

अव्वैयार् महाभागा एनमनावाश्यकं युद्धं निरुद्ध्य समाजस्य राजपरिवारयो: च हितं विधाय अतीव संतुष्टा बभूव |

अव्वैयार् महाभागां अतियमान महाराज्ञं उद्दिश्य अपरमेक: विश्रुत: वृत्तान्त: अस्ति | तदत्र पश्याव:|

तत: पूर्वं आमलकस्य गुणवत्तां प्रति किञ्चित् पश्याव:| किमितिचेत् अयं वृत्तान्तम् आमलक प्रधान |

आमलकं दरिद्राणां कश्मीर (सेव) फलमिति प्रसिद्ध:|

आमलक फलं प्रभूत पोषक घटकयुक्तम् | तत्  मानवकुलं पिपर्ति | अनेन कारणेनैव प्राचीन कालप्रभृति: आमलक वृक्षं भूमातृस्थानं दत्वा पूजयन्ति जना:|  एते आमलकस्य गुणविशेषा:|

आमलके बहूनि औषधगुणानि वर्त्तन्ते | भावप्रकाश नामक आयुर्वेद ग्रन्थे कथितं यत्

हन्ति वात तदम्लत्वात् पित्तं माधुर्यशैत्यत: |

कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् ||

आयुर्वेद वैद्यशास्त्रानुसारेण आमलके अम्ल ,कषाय,माधुर्य इति त्रय: रसा:, लघु, रूक्ष,शीत इति त्रीणि गुणानि सन्ति | अम्लात् वातं, माधुर्य – शैत्यात् पित्तं, कषाय रूक्षात् कफं च शाम्यन्ते |

विटामिन् ‘सी’ घटकस्य प्रभूत प्राकृतिक मूलमस्ति आमलके |,आमलकस्य नवक रसे नारङ्ग फलस्य विंशत्युत्तर गुणा: विटमिन् सी वर्तते | एकं आमलकं द्विनारंग फ़ल तुल्यमिति कथ्यते | क्षयरोगग्रस्त रोगिणामुपरि कृतेन चिकित्सा परीक्षणेन प्रमाणीक्रियते यत् आमलकस्य गाढ रसं संश्लेषित विटामिनस्य अपेक्षया अतिशीघ्रं समीकरोति इति |

इदं फलं बहु लाला स्रवणं, उत्क्लेश:,वमनं, घूर्णि , वीर्यस्खलनता, आन्तर शरीर ऊष्मता, आर्तव अव्यवस्था आदि नाना विधान् दोषान् दूरीकरोति | अत: आयुर्वेद औषधे बल्ये (टानिक) च इद फलं मुख्य घटकमस्ति | यकृदाय च उत्तम बल्यमस्ति इदं फलम् | इदं फलं केशरक्षणं करोतीति कारणात् आमलकरसं तैले मिलित्वा केशतैल प्रतिविधत्ते | संप्रति केशरंजक वर्णे अपि आमलकं प्रयुक्तम् |

च्यवनप्राशे त्रिफला चूर्णे च प्रधान घटकं अमलकमेवास्ति

न केवलं भारतवर्षे चीन देशे अपि कण्ठशूथे औषधमिव आमलकं प्रयुज्यते |

ईदृशी अमूल्य आमलकं राज्ञा अतियमानेन अव्वैयार महाभागाय दत्तमिति श्रूयते |

अव्वैयार महाभागं प्रति अतियमान राज्ञ: प्रीति: आदर: च तादृशी आसीत् |

एकदा: राज्ञ: दीर्घायुं कामयमान: कश्चन व्यक्ति: एकं विशिष्टं आमलकं अतियमान राज्ञे उपाहृत | |राजा तु निस्वार्थभावनया प्रेरितो भूत्वा “ यदि अहम् एतदामलकं स्वयमेव न भुक्त्वा अव्वैयार् महाभागाय ददामि चेत् सा दीर्घायुष्मती भूत्वा समाजस्य द्रविडभाषाया: च सेवा करिष्यति |” इति विचिन्त्य स तदामलकम् अव्वैयार महाभागाय समर्पितवान् |

 

AKSHRA
error: Content is protected !!