भारतवर्षे बौद्धधर्मस्य प्रत्यागमनम्

आर् वैद्यनाथन्

दिल्ली नगरे रेणुका  प्रतिदिनं व्यवधानेन विना ‘नं म्योहो रेन्गे क्यो’ मन्त्रस्य उच्चारणं करोति l अस्य मन्त्रस्य साहाय्येन सा जीवितस्य नैकेषां समस्यानां समाधानं प्राप्नोति l को मन्त्र एषः? एतत् खलु जापानीय बौद्धमन्त्रः अस्ति l बहवोजनाः स्वेषाम् आर्थिक- स्वास्थ्यपरक-बन्धुत्वसंबन्धानां समस्यानां निवारणार्थं एषः मन्त्रः अमोघ इत्यनुभवन्ति l

बौद्धधर्मः ‘कोरिया चीन देशादि मार्गेण ख्रीष्टस्य सप्तम-अष्टम शताब्दे जापानदेशम् अवाप l जापानदेशे बौद्धधर्मः विकासमानः सन् तत्र नैका शाखाः अभवन् l  ख्रीष्टस्य त्रयोदश शतके निचिरेन् दय्शोनिन् ( Nichiren Daishonin) नाम्ना बौद्धमुनिः तत्काले विद्यमानं प्रायः समस्त बौद्ध साहित्यम् अधीतवान् l आमूलचूल अध्ययनानन्तरं केवलं कमलसूत्रं गौतम बुद्धस्य सारभूत संदेशं बोढुं समर्थ –इत्येव निर्णयं साधितवान् l को वा गौतम बुद्धस्य सारभूत संदेशः? सर्वे जनाः वर्तमाने जीवने एव यथा स्थितौ- एव बुद्धत्वं प्राप्तुं शक्नुवन्ति – इति l मतान्तरे तु  स्त्रियः बुद्धत्वं प्राप्तुं कदापि नार्हा इति प्रतिबन्धं आमनन्ति l  तथा च अन्येषां कृते अपि सामान्य-अवस्थातः बुद्धावस्था प्राप्तौ कल्पकोटि कालं वा अल्पं भवेत् – इत्यपि प्रत्यवोचन् किन्तु कमलसूत्रमेव लोकानुद्धरणे क्षम-अस्ति-इति सोऽमन्यत l सोऽवोचत् ‘ नं म्योहो रेन्गे क्यो ’ इत्येष मन्त्र एव जनान् तेषां कार्मिक दुःखेभ्यः निवर्तयितुं प्रभवति l

यथोक्तस्य मन्त्रस्य तात्पर्यं किम? गौतम बुद्धस्य शिक्षाः देशकालानुरूपेण केषुचित् सूत्रेषु विभक्ताः आसन् l तथागतस्य अन्तिम सूत्रेषु अन्यतमः ‘ सद्धर्मपुन्दरीकसूत्रम् ‘ यत् जापानी भाषायां ‘ म्योहो रेन्गे क्यो ‘ इति शीर्शकेण व्यवहरति l निचिरेनः केवलं ‘ नमः ‘ इति संस्कृतपदं अस्मिन् मन्त्रे योजितवान् l ‘ नं म्योहो रेन्गे क्यो ‘ कार्यकारणयोः विधानस्य अभिधानम् l एतत् विधानं सर्वेषां जनानां जीवनस्य नियमनं करोति l प्रज्ञानं च साधयति l निचिरेनः अस्य मन्त्रम् एवं व्याख्यानं प्रतिपादयति :- ‘म्यो’ जीवनस्य क्षणे क्षणे परिवर्तनशीला अस्माकं प्रकृतिरेव या मनसा न ग्राह्यं भवति न शब्दैः अभिव्यञ्जनीयं वा l ‘हो’ इत्येव शब्दः धर्मसूचकः l उभयपदयोः समग्रतात्पर्यं रहस्यमयं विधानं –अस्ति l ‘रेन्गे’ शब्देन कमलं समर्थयति l यथा कार्यकारणः युगपत् घटनीयप्रकृतिं प्रतिभास्यति तथैव कमलं युगपत्  एव  विकासं प्राप्नोति बीजं च उत्पादयति l  अस्माकं वैयक्तिक जीवनानां परिस्थितयःविशेषतश्च कार्यकारणैः निर्णीथा भवन्ति l एतद्धि प्रतिक्षणमस्माकं  सदसद् विचारैः शब्दैः कार्यैः च संचितं जायते l एतत् एव अस्माकं कर्म इति अभिधीयते l कार्यकारणयोः विधानम् स्पष्टी करोति यत् वयमेव स्वभविष्यत् कर्म निर्धारकाः इति l अत एव निजं भाग्यं निर्मातुं परिवर्तयितुं वयं समर्थाः l अस्मभ्यं करणीयं प्रमुख कार्यमस्ति ‘नं म्योहो रेन्गे क्यो’ मन्त्रस्य जप एव l यदा वयं जपं कुर्मः तेन बुद्धत्वस्य प्रभाव अस्माकं जीवने गहनतया प्रकरोति तथा च – उचित समये अभिव्यञ्जयति l यथा कमलं पन्किले सरोवरे विकसति तथापि पवित्रं निर्मलं च भवति तथैव नकारात्मक प्रतिव्वेशेऽपि वयं मन्त्रजाप प्रभावेन स्वजीवनं शुद्ध अपि पवित्रं कर्तुं प्रभवामः l ‘क्यो’ पदं  बुद्धस्य वाचं उपदेशं च व्यनक्ति l क्यो सूत्रवाचकमस्ति यत् बुद्धस्य उपदेशं ध्वनति l

निचिरेनस्य बौद्धमतं – अत्यन्त प्रभावपूर्ण यतः ये के जनाः अस्य- अनुपालनं अकुर्वन् ते सर्वेऽपि स्वजीवने साफल्यं प्राप्नुवन्तः इत्येतेन उदाहरेण एषा तथ्यः निरूपितः  भवति l

ख्रीष्टस्य १९३० तमे वर्षे माकिगुचि (Makiguchi) नाम जापानीय शिक्षकः सोका गक्काय इत्येकं संघटनं साधितवान् l तत्र निचिरेनस्य निदेशम् अनुसृत्य कमल सूत्रस्य अनुपालनं भवति l अस्य प्रमुख शिक्षा ‘नं म्योहो रेन्गे क्यो’ इत्यस्य मन्त्रस्य जप एव यो हि  क्रमेण मन्त्रजापकानां कष्टान् दुःखात् निर्मोचयति  l यदा यदा अस्माकं आस्था दृढी भवति असमाभिः अन्येषां दुःख निव्रित्यर्थं साहाय्यं करणीयम् l

द्वितीय विश्वयुद्धसमये जापान देशस्य सैनिक शासनं पूर्णतः निरङ्कुश आसीत् l तैः प्रजासु ‘शिन्तो’ रक्षाप्रतीकान् वितीर्य ‘शिन्तोदेवं’ उपासयितुम् आधिष्टवन्तः परन्तु माकिगुचि निचिरेन दय्शोनिनस्य बौद्धमतं विश्वसितवान् l सर्वकारः एनं धार्मिक विरोध कारणेन माकिगुचि कारागृहं प्रेषितवान् l सः कारागृहे एव मृत्युं प्राप्तवान् l जोसेइ तोडा (Josei Toda) नाम तस्य शिष्यः अपि तेन  सह कारागृहं प्रेषितः आसीत् l सः कारागृहे बहुकालं यापितवान् परञ्च युद्ध समाप्तिपूर्वं सः कारागृहात् मुक्तः अभवत् l जोसेइ तोडा जापानदेशे सोका गक्काय संघटनं पुनरुज्जीव्य सदस्य संख्या अभिवर्दितवान् l तच्छिष्य़॓षु वर्तमान अध्यक्षः दय्साकु  इकेदा गुरोः शिक्षां निखिले विश्वे अद्यापि प्रसारयति l अद्य एषः बौद्धधर्मः १९२ देशेषु प्रसृतः l संप्रति कोटिषः जनाः ‘नं म्योहो रेन्गे क्यो’ मन्त्रस्य जपं कुर्वन्ति l इकेदा महोदयस्य प्रयत्नेन भारतवर्षेऽपि लक्षद्वयानुयाचिनः एनं धर्मम् आचरन्ति l इत्थं भारतवर्षे उद्भूत बौद्धधर्मः देशदेशानन्तरं भ्रमित्वा पुनरिदानीं स्वदेशं प्रत्यागतः l

 

आर् वैद्यनाथन्

 तिरुवळळुवर्

अलमेलु कृष्णन्            

द्रविडभाषाया: आदिकवि: तिरुवळळुवर् महाभाग:| प्रथमकवि, देवकवि:,पोय्यामोऴियार्,नयिनार् इति अपर नामधेयेनापि स: महाभाग: विख्यात: | स: 2000 वर्ष पूर्वे चेन्नै राज्ये मयिलापुरी नाम स्थाने जज्ञे| द्रविड वेद: इति विश्रुत: विशिष्ट द्रविडभाषा ग्रन्थ: तिरुक्कुरळ् तेन महाभागेन एव विरचित: | कुरळ् द्वितयपंक्तिभ्यां  युक्त छन्द विशेष: | ते 133 (एकत्रयस्त्रिंशत्) अधिकारेषु विभक्ता: | प्रति अधिकारे दशकुरळा: सन्ति | अस्मिन् ग्रन्थे समग्ररूपेण 1330 (त्रयोदशशतस्त्रिंशत् ) कुरळा: सन्ति | एतत् ग्रन्थे धर्म अर्थ काम विषयान् अधिकृत्य व्यवहृतमस्ति य: निर्दिशति मानवै: किं कर्तव्यं किमकर्तव्यमिति | तिरुवळळुवर् महाभागस्य वाणी भूत, वर्तमान, भविष्य इति त्रिषु कालेष्वापि हितकरा: |

तिरुवळळुवर् महाभागेन तिरुक्कुरळ् ग्रन्थे वर्णित प्रकारेण तस्य महाभागस्य पत्नी वासुकी पतिपरायणा आसीत् | सा महाभागा निस्वार्थ भावेन पतिसेवनं कुर्वन्ती जीवनयापनं कृतवती |

तर् कात्तुत् तर् कोण्डार पेणित् तकैचान्र

चोर् कात्त्तुच् चोर्विलाळ् पेण् ||  ( इल्लर इयल अधिकार -6 कुरळ् -56 )

या नारी पातिव्रत्य पालनेन स्वस्य रक्षणं करोति, पत्यु: परिचर्यां करोति, द्वाभ्यामपि सुयशस्य रक्षणं करोति, धर्मपरिपालने अश्रान्तो च भवति चेत् सा एव नारीति (पत्नीति) कथ्यते |

तिरुवळळुवर् महाभाग: “प्रतिदिनं भोजनसमये भोजनपात्र समीपे जलपूर्ण चषकं सूचिकां च स्थापयतु” इति पत्नीं निर्देशितवान् | साऽपि पत्यु: आज्ञां पालितवती |

तौ आदर्श पतिपत्न्यो::जीवितकाले घटितं एकां घटनां पश्याम:|

पत्न्या: अन्तकाले तिरुवळळुवर् तां प्रपच्छ “प्रिये, मया सह जीवनकाले भवती संतुष्टा वा न वा ? ”

“नाथ ! भवत: सह मम जीवनं आनन्दपूर्णमेव आसीत् | अहं अतीव संतुष्टोस्मि |

“एतत्कालपर्यन्तं भवती श्रद्धापूर्वकं मम परिचर्यां कुर्वन्नासीत् | कदाऽपि किमपि प्रश्नं न पृष्टवती | किमपि संशयं अस्ति चेत् इदानीं पृच्छताम् ” इति तिरुवळळुवर् महाभाग: पुन: अपृच्छत् |

सा भद्रा विनयपूर्वकं “भवत: अनुमत्या अहं एकं प्रश्नं प्रष्टुमिच्छामि | भवान् किमर्थं प्रतिदिनं भोजनकाले जलपूर्णचषकं सूचिकां च प्रस्थापितुं आदिशवान् ” इति पप्रच्च्छ |

तच्छ्रुत्वा तिरुवळळुवर् महाभाग: “ प्रिये! परिवेषण समये यदि एकमपि अन्नं भूमौ पतति चेत् तदन्नं सूचिकया गृहीत्वा चषकजले क्षालयित्वा खादितव्यमिति मे मतम् | परन्तु भवत्या: परिवेषण समये किंचिदपि अन्नं भूमौ न पतितम् | तस्मात् चषकजलस्य सूचिकाया: च उपयोगं कर्तुम् अवसरं न अलभम् “ इति प्रत्यूचु: |

 

AKSHRA
error: Content is protected !!